सुप्रभात - स्तोत्रम्

               शार्दूलविक्रीडितम्

यत्स्वर्गावतरोत्सवे यदभवज्जन्माभिषेकोत्सवे,

यद्दीक्षाग्रहणोत्सवे यदखिलज्ञानप्रकाशोत्सवे । 

यन्निर्वाणगमोत्सवे जिनपतेः, पूजाद्भुतं तद्भवैः,

सङ्गीतस्तुतिमङ्गलैः प्रसरतां, मे सुप्रभातोत्सवः ||१||


            वसन्ततिलकाछन्दः

  श्रीमन् - नतामर - किरीट - मणिप्रभाभि-

 रालीढपाद - युग ! दुर्द्धर- कर्मदूर !

श्रीनाभिनन्दन ! जिनाजित! शम्भवाख्य !

 त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥२॥


छत्रत्रय - प्रचल - चामर - वीज्यमान !

देवाभिनन्दनमुने ! सुमते ! जिनेन्द्र !

पद्मप्रभारुणमणि - धुति - भासुराङ्ग !

त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥३॥


अर्हन् ! सुपार्श्व ! कदली-दलवर्ण-गात्र !

 प्रालेय- तारगिरि - मौक्तिक - वर्णगौर !

चन्द्रप्रभ ! स्फटिक पाण्डुर - पुष्पदन्त !

त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥४॥


सन्तप्त-काञ्चनरुचे ! जिनशीतलाख्य !

श्रेयन् !  विनष्ट-दुरिताष्ट- कलङ्क -पङ्क !

बन्धूक - बन्धुररुचे ! जिनवासुपूज्य !

त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥५॥


उद्दण्ड - दर्पक - रिपो ! विमलामलाङ्ग ! 

स्थेमन्ननन्तजिदनन्त  - सुखाम्बुराशे !

दुष्कर्म - कल्मष विवर्जित - धर्मनाथ !

त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥ ६॥


देवामरी - कुसुम - सन्निभ - शान्तिनाथ !

कुन्थो ! दयागुण - विभूषण - भूषिताङ्ग !

देवाधिदेव !    भगवन्नरतीर्थ नाथ !

त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ||७||


यन्मोह- मल्ल - मद - भजन मल्लिनाथ !

क्षेमङ्करावितथ - शासन सुव्रताख्य !

सत्-सम्पदा प्रशमितो नमिनामधेय !

त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥८॥


तापिच्छगुच्छ - रुचिरोज्ज्वल - नेमिनाथ !

घोरोपसर्गविजयिन् !   जिनपार्श्वनाथ !

स्याद्वाद-सूक्ति-मणि-दर्पण ! वर्द्धमान !

त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥९॥


प्रालेय- नील - हरितारुण - पीत -भासं,

यन्मूर्तिमव्यय-सुखावसथं मुनीन्द्राः ।

ध्यायन्ति सप्तति-शतं जिनवल्लभानां,

त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥१०॥


              अनुष्टुप्छन्दः


सुप्रभातं सुनक्षत्रं, माङ्गल्यं परिकीर्तितम् ।

चतुर्विंशतितीर्थानां, सुप्रभातं दिने दिने ॥११॥

सुप्रभातं सुनक्षत्रं श्रेयः प्रत्यभिनन्दितम् ।

देवता ऋषयः सिद्धाः, सुप्रभातं दिने दिने ॥१२॥

सुप्रभातं तवैकस्य, वृषभस्य महात्मनः ।

येन प्रवर्तितं तीर्थं, भव्यसत्त्वसुखावहम् ॥१३॥

सुप्रभातं जिनेन्द्राणां ज्ञानोन्मीलितचक्षुषाम् ।

अज्ञानतिमिरान्धानां नित्यमस्तमितो रविः ॥१४॥

सुप्रभातं जिनेन्द्रस्य, वीरः कमललोचनः ।

येन कर्माटवी दग्धा, शुक्लध्यानोग्रवह्निना ||१५|| 

सुप्रभातं सुनक्षत्रं, सुकल्याणं सुमङ्गलम् ।

त्रैलोक्यहितकर्तॄणां, जिनानामेव शासनम् ||१६||