दर्शन-पाठः

दर्शनं  देवदेवस्य दर्शनं  पापनाशनम् ।

दर्शनं  स्वर्गसोपानं, दर्शनं  मोक्षसाधनम् ||१||

दर्शनेन जिनेन्द्राणां साधूनां वन्दनेन च ।

 न चिरं तिष्ठते पापं, छिद्रहस्ते यथोदकम् ||२||

वीतराग- मुखं दृष्ट्वा, पद्म-राग-समप्रभम् । 

जन्म-जन्म कृतं पापं, दर्शनेन विनश्यति ॥३॥

दर्शनं जिनसूर्यस्य, संसारध्वान्त-नाशनम् ।

बोधनं चित्तपद्मस्य, समस्तार्थ-प्रकाशनम् ||४||

दर्शनं जिनचन्द्रस्य, सद्धर्मामृत-वर्षणम् ।

जन्मदाह विनाशाय, वर्धनं सुखवारिधेः ॥५॥

जीवादितत्त्वप्रतिपादकाय, सम्यक्त्वमुख्याष्टगुणार्णवाय । 

प्रशान्तरूपाय दिगम्बराय, देवाधिदेवाय नमो जिनाय ॥६॥

चिदानन्दैक-रूपाय, जिनाय परमात्मने । 

परमात्म-प्रकाशाय, नित्यं सिद्धात्मने नमः ॥७॥ 

अन्यथा शरणं नास्ति, त्वमेव शरणं मम |

तस्मात् कारुण्यभावेन, रक्ष रक्ष जिनेश्वर ! ॥८॥

न हि त्राता न हि त्राता, न हि त्राता जगत्त्रये ।

वीतरागात् परो देवो, न भूतो न भविष्यति ॥९॥

जिने भक्तिर्जिने भक्तिर्जिने भक्तिर्दिने दिने ।

सदा मेऽस्तु सदा मेऽस्तु सदा मेऽस्तु भवे भवे ॥१०॥

जिनधर्मविनिर्मुक्तो, मा भवेच्चक्रवर्त्यपि ।

स्याच्चेटोऽपि दरिद्रोऽपि, जिनधर्मानुवासितः ॥११॥

जन्म-जन्मकृतं जन्मकोटिमुपार्जितम् ।

जन्म-मृत्यु-जरा-रोगो, हन्यते जिनदर्शनात् ॥१२॥

अद्याभवत् सफलता नयन-द्वयस्य,

देव ! त्वदीय-चरणाम्बुज-वीक्षणेन ।

अद्य त्रिलोक-तिलक ! प्रतिभासते मे,

संसार-वारिधि-रयं चुलुक-प्रमाणः ||१३||